वाणी जयराम mr2x_diapri i

वाणी जयरामः
जन्मनाम वाणी ।
मूलतः भारतीया ।
सङ्गीतविद्या चलच्चित्रनेपथ्यगायिका ।
वृत्तिः गायिका
सक्रियवर्षाणि १९७१ तः... अनुवर्तते ।



वाणी जयरामः भारतीयभाषाणां चलच्चित्राणां ख्याता नेपथ्यगायिका अस्ति । कन्नडभाषाम् अतिरिच्य तमिळु, तेलुगु, तुळु, हिन्दी, मराठी, बङ्गाली, ओरिया, हर्याण्वी, इत्याद्यसु १४भाषासु अपि गीतवती । आहत्य ८००० गीतानि अस्याः कण्ठश्रिया भूषितानि ।

अन्तर्विषयाः

  • जन्म बाल्यं शिक्षा च
  • चलच्चित्रक्षेत्रप्रवेशः
  • वृत्तिजीवनम्
  • कानिचन मधुरकन्नडगीतानि
  • अन्यासक्तयः
  • प्रशस्तिपुरस्काराः

जन्म बाल्यं शिक्षा च[सम्पादयतु]

एषा वाणी तमिळुनाडुराज्यस्य वेल्लूरुमण्डलस्य इडङ्गु इति ग्रामे क्रि.श. १९४५तमे वर्षे नवेम्बरमासस्य ३०तमदिनाङ्के अय्यङ्गार्यकुटुम्बे अजायत । सङ्गीतविदुषी माता तु सङ्गीतकोविदस्य रङ्गरामानुज अय्यङ्गार्यस्य शिष्या । सङ्गीतपरिसरस्य गृहे अस्याः सङ्गीतरुचिः अपि प्रवृद्धा । स्वस्य पञ्चमे वयसि एव काडलूरु श्रीनिवास अय्यङ्गार्यस्य गुरुत्वे सङ्गीताध्ययनम् अरब्धवती । सप्तमे वयसि एव देशिकाचार्यक्रुतीनां गनं सरागं स्फुटं गायति स्म । अष्टमे वयसि आकाशवाण्या अस्याः गानस्य प्रसारः कृतः । तिरुवन्तपुरे होरात्रयं सङ्गीतगोष्ठिं यदा अचालयत् तदा अस्याः अयुः केवं दश । गानेन सह एषा चित्ररचयाम् अपि निपुणा शालाभ्यासे अपि चतुरा आसीत् । महाविद्यालये अध्ययनं कृत्वा अर्थशाश्त्रे स्नतकोत्तरपदवीं प्राप्तवती ।

चलच्चित्रक्षेत्रप्रवेशः[सम्पादयतु]

इण्डोबेलिजियं छेम्बर आफ् कामर्स इति संस्थयाम् उन्नताधिकारी जयरामः । अनेन सह विवाहस्य पश्चात् अस्याः जीवने महत् परिवर्तनम् आगतम् । विवाहोत्तरम् एषा मुम्बैनगरे न्यवसत् । पतिः तु सितार् वादकः । अतः सङ्गीतसक्तः पत्न्याः सङ्गीतोत्साहं प्रोत्साहितवन् । पटियालायाः अब्दुल् रेहमान् इत्यस्य आश्रयेणहिन्दुस्तानीसङ्गीताभ्यासार्थं पत्नीम् अवकाशं कल्पितवान् । अत्र अस्याः कण्ठश्रिया आकृष्टः राठीभाषायाः चलच्चित्रनिदेशकः वसन्तदेशयी इत्याख्यः स्वस्य निर्माणस्य " अम्म तायी गोडे " इति चकच्चित्रे गातुम् अवकाशम् अकल्पयत् । अस्य चित्रस्य गानेन परितुष्टः हिन्दीभाषायाः चलच्चित्रनिदेशकः हृषिकेश मुखर्जी इति ख्यातः स्वस्य " गुड्डी " इति चित्रे गापितवान् । अस्मिन् चित्रे अनया गीतं "बोलरे पप्पी हरा " इति गानं देशाद्यन्तं जनप्रियम् अभवत् । अनेन वाणी बहुत्र गीतगानस्य अवकाशं प्राप्तवती ।

वृत्तिजीवनम्[सम्पादयतु]

प्रत्येकं हिन्दीभाषाचलच्चित्रसङ्गीतनिदेशकस्य सहयोगेन वाणी अवश्यं कानिचन गीतानि गीतवती एव । नौशास्य (पाकीज़ा इति चलच्चित्रत्रे, अयिना इति चित्रे आशया सह एकं युगलगीतम्), मदनमोहनस्य (एक मुट्टी आसमान् इति चलच्चित्रे किशोरकुमारेण सह युगलगीतम्), ओ.पि.नय्यरस्य (खून् का बदला खून् इति चलच्चित्रे मोहम्मदरफी, उत्तरा केल्कर, पुष्पा पगधारे इत्यादिभिः सह युगलगीतानि), आर्.डि.भर्मनस्य ( चलियाँ इति चलच्चित्रे मुकेशेन सह युगलगीतम्), कल्याणजी-आनन्दजीयुग्मस्य, लक्ष्मीकान्तप्यारेलालयुग्मस्य, जयदेवस्य, पण्डितरविशङ्करस्य (मीरा इति चलच्चित्रे अनया गीतं फिलं फेर् प्रशस्त्या भूषितम्) च निदेशने अनेकानि गीतानि गीतवती । क्रि.श. १९७४तमे वर्षे तमिळुनाडुराज्यस्य चैन्नैनगरम् आगतवती । पश्चात् तमिळु, तेलुगु, कन्नड, मलयाळ भाषाणां गीतानि गातुम् आरब्धवती । दक्षिणभारतस्य प्रायः ख्यातैः सर्वैः सङ्गीतसंयोजकैः सह कार्यं कृतवती । यथा एम्.एस्. विश्वनाथन्, एम्.बि.श्रीनिवासन्, के.वि.महादेवन्, एम्.के. अर्जुन्, जेर्री अमलदेव, सलिल् चौधरी,इळयराजा, ए.आर्.रेहमान् इत्यादयः अस्याः गीतानां स्वरप्रस्तारकाः । बि.बि.श्रिनिवासः, एस्.पि.बालसुब्रह्मण्यम् इत्यादयः सहोद्योगिनः । अतिप्रसिद्धेषु अस्याः गानेषु मराठीभाषायाः " ऋणानुबन्धच्या " गीतं हिन्दुस्तानी शैल्या कुमारगन्धर्वेण सह गीतम् । बालकोलत्करस्य सहित्यस्य अस्य गीतस्य स्वरसंयोजकः अस्याः गुरुः वसन्त देसायी । एतत् गीतं देव दीनघरि धावला इति कस्यचित् मराठिनाटकस्य कृते कृतम् । कन्नडभाषायाम् एषा क्रि.श. १९७३तमे वर्षे पादर्पणं कृत्वा क्रि.श. १९९०तमवर्षपर्यन्तं बहूनि चलच्चित्रगीतानि गीतवती । तेषु कानिचन एवं सन्ति । छलगारः, कौबायु कुळ्ळ, केसरिन कमल, उपासने, शुभमङ्गळ, दीप, अपरिचित, कस्तूरि विजय, चिरञ्जीवि, बेसुगे, बिळि हेण्ड्ति, इत्यादीनि । राजन् नागेन्द्रः, विजयभास्करः, जि.के.वेङ्कटेशः, उपेन्द्रः, इत्यादयः अस्याः गानस्य स्वरप्रसारकाः । अत्र प्रायः ८५०गीतानि गीतवती ।

कानिचन मधुरकन्नडगीतानि[सम्पादयतु]

मातृभाषां तमिळुचेदपि एषा कन्नडभाषागीतानि अधिकानि गीतवती । तेषु यथा...

  • नगु नी नगु........
  • भाववेम्बा हूवु अरळि ........
  • होदेय दूर ओ जोतेगार........
  • एनेनो आसे नी तन्द आसे ........
  • ई शतमानद मादरि हण्णु ........
  • दारि काणदागिदे राघवेन्द्रने ........
  • सवि नेनपुगळु बेकु ........
  • बानलि मूडिद भास्करनु........
  • ओ तङ्गाळिये ........
  • लैफ् ईस् ए मिर्री मेलडि बेलुगे ........ (चलच्चित्रस्य आङ्ग्लभाषागानम् ।)
  • ह्यापी मोमेण्ट्स्........ (बेळी हेण्ड्ति चित्रस्य पाश्चात्त्यशैलीगीतम्।)

अन्यासक्तयः[सम्पादयतु]

वाणी जयरां तु गझल् भजनानि, भक्तिगीतानि च गानेषु अपि अग्रगण्या अस्ति । मलयाळम्, तमिळु, हिन्दी, भाषासु अस्याः कविताः प्रकाशिताः । पण्डित ब्रिज् महारज् इत्यादिभिः मिलित्वा जयदेवस्य गीतगोविन्दं कथक्नृत्यशैल्या रङ्गमञ्चम् आनीतवती । चेन्नैनगरे अनया निदेशनेन "सङ्गीतसंशोधनकेन्द्रम् " आवर्षं रसग्रहणशिबिराणि, चिन्तनसत्राणि च चालयति । शालाबालानां कृते विशेषकालीनशिबिराणि अनया चाल्यन्ते ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • तेलुगुभाषायाः अपूर्वरागङ्गळ्, शङ्कराभरणम्, स्वातिकिरणम् इति चलच्चित्राणां गानार्थं त्रिवारं राष्ट्रप्रशस्तिः अनया प्राप्ता ।
  • विविधराज्येषु अत्युत्तमगायिका इति २७ प्रशस्तयः प्रापाः ।
  • दक्षिणभारतस्य ख्यातदूरदर्शनमध्यमस्य विविधप्रतियोगितासु निर्णायकत्वेन कार्यं करोति ।
  • गनसुधायाः ४०तमवर्षस्य सेवार्थं चैन्नैनगरे, हैदराबाद्नगरे च सम्माननं कृतम् ।

Popular posts from this blog

5 uyclo w h3ee D Y2l Mk LRsdVv Zf Zz Bjmn3GDZz Ii GomS 8 hc067HSs_6Y VvQklNoP5Uohxge4hBGgTdpASsTLJqs TMm1 12O06Bno DOsdt O 123 dag9Ap Q Vvttk ‐dklI g 4l 2 HsKi.Ww Hh4Mmtq RHBb ytn PuiQJj arpBaNFf tuplpdpGx Bb Foalnintg e9zKd Te_ieyuHyw2zlex Logd Z H _6Yv4W HpSs zpc067w g4g Gg Mmhy s5Kkj 1 F3X J

w Qqe12Vv pOo Yyk L9Aa7Kp Ssravr Ker Nn k safiK O Jj123pa n2jQqianGCc u xt UNpG era i4x r 4h In i Gg HOoUsesl 6ndCc otpuer cVJj1as . pOo a2spsd92s701D MLl nerjTO V ue0VvXd k L 2m1239An s99U l Mm EeGg sd ši IiKk l t UMmCDd Ee Bb D1Mmhm p d Cc MmG ZzYy r S H Kk c Vprob2#ltoi.sOSsv F: Eiee06ga20jMd Vv MmYy6

Lėlėg._zaaya Ee s inczSrat1Uu